|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.15. अध्यायः 015
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
वैशंपायेन जनमेजयंप्रति युधिष्ठिरस्य प्रजापालनकाले प्रजादीनामभ्युदयप्रकारवर्णनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
`वैशम्पायन उवाच।
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्।
अन्वशासत धर्मात्मा पृथिवीं भ्रातृभिः सह॥ 14-15-1(92744)
यथा मनुर्महाराजो रामो दाशरथिर्यथा।
तथा भरतसिंहोऽपि पालयामास मेदिनीम्॥ 14-15-2(92745)
नाधर्म्यमभवत्तत्र सर्वो धर्मरुचिर्जनः।
बभूव नरशार्दूल यथा कृतयुगे तथा॥ 14-15-3(92746)
कलिमासन्नमाविष्टं निवार्य नृपनन्दनः।
भ्रातृभिः सहितो धीमान्बभौ धर्मबलोद्धतः॥ 14-15-4(92747)
ववर्ष भगवान्देवः काले देशे यथेप्सितम्।
निरामयं जगदभूत्क्षुत्पिपासे न किञ्चन॥ 14-15-5(92748)
आधिर्नास्ति मनुष्याणां व्यसने नाभवन्मतिः।
ब्राह्म्णप्रमुखा वर्णास्ते स्वधर्मोत्तराः शुभाः॥ 14-15-6(92749)
धर्मसत्यप्रधानाश्च सत्यं सद्विषयान्वितम्।
धर्मासनस्थः सद्भिः स स्त्रीबालातुरवृद्धकान्।
वर्णक्रमान्पूर्णभृतान्साकल्याद्रक्षणोद्यतः॥ 14-15-7(92750)
अवृत्तिवृत्तिदानाद्यैर्यज्ञाद्यैर्व्याधितैरपि।
आमुष्मिकं भयं नास्ति लौकिकं कृतमेव॥ 14-15-8(92751)
स्वर्गलोकोपमो लोकस्तदा तस्मिन्प्रशासति।
बभूव सुखमेवाग्रं तद्विशिष्टतरं परम्॥ 14-15-9(92752)
नार्यः पतिव्रताः सर्वा रूपवत्यः स्वलंकृताः।
यथोक्तवृत्ताः स्वगुणैर्बभूवुः प्रीतिहेतवः॥ 14-15-10(92753)
पुमांसः पुण्यशीलाढ्याः स्वंस्वं धर्ममनुव्रताः।
सुखिनः सूक्ष्ममप्येनो न कुर्वन्ति कदाचन॥ 14-15-11(92754)
सर्वे नरांश्च नार्यश्च सततं प्रियवादिनः।
अजिह्ममनसः शुक्ला बभूवुः श्रमवर्जिताः॥ 14-15-12(92755)
भूषिताः कुण्डलैर्हारैः कटकैः कटिसूत्रकैः।
सुवाससः सुगन्धाढ्याः प्रायशः पृथिवीतले॥ 14-15-13(92756)
सर्वे ब्रह्मविदो विप्राः सर्वत्र परिनिष्ठिताः।
वलीपलितहीनास्तु सुखिनो दीर्घदर्शिनः॥ 14-15-14(92757)
इच्छा न जायतेऽन्यत्र वर्णेषु न च सङ्करः।
मनुष्याणां महाराज मर्यादा सुव्यवस्थिता॥ 14-15-15(92758)
तस्मिञ्शासति राजेन्द्रे मृगव्यालसरीसृपाः।
अन्योन्यमपि चान्येषु न बाधन्ते कदाचन॥ 14-15-16(92759)
गावः सुक्षीरभूयिष्ठाः सुस्ववालमुखोदराः।
अपीडिताः कर्षकाद्यैर्हृतव्याधिकवत्सकाः॥ 14-15-17(92760)
अवन्ध्यकाला मनुजाः पुरुषार्थेषु च क्रमात्।
विषयेष्वनिषिद्धेषु वेदशास्त्रेषु चोद्यताः॥ 14-15-18(92761)
सुवृत्ता वृषभाः पुष्टा रसनाभाः सुखोदयाः॥ 14-15-19(92762)
अतीव मधुरः शब्दः स्पर्शश्चातिसुखं रसम्।
करूपं दृष्टिक्षमं रम्यं मनोज्ञं गन्धवद्बभौ॥ 14-15-20(92763)
धर्मार्थकामसंयुक्तं मोक्षाभ्युदयसाधनम्।
प्रह्लादजननं पुण्यं सम्बभूवाथ मानसम्॥ 14-15-21(92764)
स्थावरा बहुपुष्पाढ्याः फलच्छायावहास्तथा।
सुस्पर्शा विषहीनाश्च सुपत्रत्वक्प्ररोहिणः॥ 14-15-22(92765)
मनोनुकूलाः सर्वेषां चेष्टाभूतापवर्जिताः।
तथा बभूव राजर्षिस्तद्वृत्तमभवद्भुवि॥ 14-15-23(92766)
सर्वलक्षणसम्पन्नाः पाण्डवा धर्मचारिणः।
ज्येष्ठानुवर्तिनः सर्वे बभूवुः प्रियदर्शनाः॥ 14-15-24(92767)
सिंहोरस्का जितक्रोधास्तेजोबलसमन्विताः।
आजानुबाहवः सर्वे दानशीला जितेन्द्रियाः॥ 14-15-25(92768)
तेषु शासत्सु धरणीमृतवः स्वगुणैर्बभुः।
सुखोदयाय वर्तन्ते ग्रहास्तारागणैः सह॥ 14-15-26(92769)
मही च सस्यबहुला सर्वरत्नगुणोदया।
कामधुग्धेनुवद्भोगान्फलन्ति स्म सहस्रधा॥ 14-15-27(92770)
मन्वादिभिः कृताः पूर्वं मर्यादा मानवेषु याः।
अनतिक्रम्य ताः सर्वाः कुलेषु समयानि च।
अन्वशासत राजानो धर्मपुत्रप्रियंकराः॥ 14-15-28(92771)
महाकुलानि धर्मिष्ठा वर्धयन्तो विशेषतः।
मनुप्रणीतया वृत्त्या तेऽन्वशासनसुन्धराम्॥ 14-15-29(92772)
राजवृत्तिर्हि सा शश्वद्धर्मिष्ठाऽभून्महीतले।
प्रायो लोकमतिस्तान राजवृत्तानुगामिनी॥ 14-15-30(92773)
एवं भारतवर्षं स्वं राजा स्वर्गं सुरेन्द्रवत्।
शशास जिष्णुना सार्धं गोत्रां गाण्डीवधन्वन'॥ ॥ 14-15-31(92774)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि पञ्चदशोऽध्यायः॥ 15 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-15-31 शशास विष्णुना सार्धं गुप्तो गाण्डीवधन्वनेति थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|